श्रान्तः शृगालः
चित्रमाध्यमेन शृगालस्य अवस्था

बुभुक्षितः पिपासितः च शृगालः वने भ्रमति किन्तु किमपि न लभते।
Comprehend the narrative sequence of the poem and the actions of the fox.
Preview · progress not saved — Chapter 1 is free
चित्रमाध्यमेन शृगालस्य अवस्था

बुभुक्षितः पिपासितः च शृगालः वने भ्रमति किन्तु किमपि न लभते।
कथायाः आरम्भः
एकः शृगालः वनं गच्छति।
पिपासा, तस्य बुभुक्षा
पिपासया बुभुक्षया वनं गच्छति
सः वनं गच्छति, सः वनं गच्छति।
तत्र गच्छति, किमपि न लभते
इतोऽपि गच्छति, किमपि न लभते
श्रान्तः जायते, खिन्नः जायते
किं च करोति ? सः किं च करोति ?
कथायाः अन्तः
पश्यति द्राक्षालतां
सः पश्यति द्राक्षाफलम्
उपरि उपरि लतासु दृश्यते च तत्फलम्
अनुक्षणं तन्मुखे रसः जायते
किं च करोति ? सः किं च करोति ?
एकवारम् उत्पतति, द्विवारम् उत्पतति
त्रिवारम् उत्पतति, पुनः पुनः उत्पतति
स्वेदः जायते, तस्य श्रमः जायते
किं कथयति ? सः किं कथयति ?
आम्लं द्राक्षाफलम् आम्लं द्राक्षाफलम्
इत्येवं कथयति, सः पलायते
इत्येवं कथयति, सः पलायते ।।
चित्रमाध्यमेन शृगालस्य प्रयासः

बहुवारं प्रयत्ने कृते अपि शृगालः द्राक्षाफलानि न प्राप्नोति।
कथायाः ज्ञानस्य परीक्षणम्
बहुवारम् उत्पत्य अपि किं शृगालः द्राक्षाफलं प्राप्नोति?