सर्वधनप्रधानम् विद्याधनम्
विद्याधनस्य अद्भूताः गुणाः।

विद्याधनं न चोरेण ह्रियते, न राज्ञा गृह्यते, न भ्रातृभिः विभज्यते, न च भारं जनयति। व्यये कृते इदं वर्धते एव।
Learn the principle of steady, patient effort in learning and recognize knowledge as the one indestructible, un-stealable wealth.
Preview · progress not saved — Chapter 1 is free
विद्याधनस्य अद्भूताः गुणाः।

विद्याधनं न चोरेण ह्रियते, न राज्ञा गृह्यते, न भ्रातृभिः विभज्यते, न च भारं जनयति। व्यये कृते इदं वर्धते एव।
कानि कार्याणि शनैः करणीयानि?
जीवने कानिचन कार्याणि शीघ्रं न भवन्ति। तेषां प्राप्त्यै धैर्यस्य निरन्तरप्रयासस्य च आवश्यकता भवति।
पञ्च कार्याणि सर्वदा शनैः शनैः (धैर्येण) करणीयानि -
शनैः पन्थाः... तथा न विद्यया विना...
श्लोकः:
शनै: पन्था: शनै: कन्था शनै: पर्वतलङ्घनम्।
शनैर्विद्या शनैर्वित्तं पञ्चैतानि शनै: शनै:।।७।।
अन्वयः: पन्था: शनै:, कन्था शनै:, पर्वतलङ्घनं शनै:, विद्या शनै:, वित्तं शनैः च एतानि पञ्च (कार्याणि) शनै: शनै: (करणीयानि)।
भावार्थः: मार्गे गमनं, वस्त्रस्य सीवनं, पर्वते आरोहणं, विद्याप्राप्तिः, धनसञ्चयश्च - एतानि पञ्च कार्याणि धैर्येण सोपानक्रमेण एव कर्तव्यानि।
ताराणां भूषणं... तथा न चोरहार्यं...
श्लोकः:
ताराणां भूषणं चन्द्रः लतानां भूषणं सुमम्।
पृथिव्याः भूषणं राजा विद्या सर्वस्य भूषणम्॥९॥
अन्वयः: चन्द्रः ताराणां भूषणम् (अस्ति), सुमं लतानां भूषणम् (अस्ति), राजा पृथिव्याः भूषणम् (अस्ति), (परं) विद्या सर्वस्य भूषणम् (अस्ति)।
भावार्थः: यथैवाकाशस्य शोभा चन्द्रेण, लतानां शोभा पुष्पैः, भूमेः शोभा च राज्ञा भवति, तथैव सर्वेषां मनुष्याणां वास्तविकं सौन्दर्यं विद्यया एव भवति।
श्लोकांशान् परस्परं संयोजयन्तु।
Terms
Definitions